|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.34. अध्यायः 034
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण दुर्योधनादिश्रेयस्साधनप्रश्ने विदुरेण नीतिकथनपूर्वकं युधिष्ठिराय राज्यदानस्य तत्साधनत्वकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
धृतराष्ट्र उवाच। 5-34-0x(3450)(32836)
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ 5-34-1(32837)
तस्माद्यथावद्विदुर प्रशाधि
प्रज्ञापूर्वं सर्वमजातशत्रोः।
यन्मन्यसे पथ्यमदीनसत्व
श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ॥ 5-34-2(32838)
पापाशङ्की पापमेवानुपश्यन्
पृच्छामि त्वां व्याकुलेनात्मनाहम् ।
कजे तन्मे ब्रूहि तत्पं यथाव-
न्मनीषितं सर्वमजातशत्रोः ॥ 5-34-3(32839)
विदुर उवाच। 5-34-4x(3451)
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्।
नापृष्टः कस्यचिद्ब्रूयाद्यः स नेच्छेत्पराभवम् ॥ 5-34-4(32840)
तस्माद्वक्ष्यामि ते राजन्हितं यत्स्यान्कुरून्प्रति।
वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ 5-34-5(32841)
मिथ्योपेतानि कर्माणि सिद्ध्येतादीनि भारत।
अनुपायप्रयुक्तानि मा स्म ते....मनः कृथाः ॥ 5-34-6(32842)
तथैव योगविहितं यत्तु कर्म न सिध्यति।
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ 5-34-7(32843)
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु।
संप्रधार्य च कुर्वीत सहसा न समाचरेत् ॥ 5-34-8(32844)
अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम्।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ 5-34-9(32845)
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये।
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥ 5-34-10(32846)
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति।
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ 5-34-11(32847)
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम्।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ 5-34-12(32848)
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्।
अन्नाभिलाषी ग्रसते नानुबन्धमवेक्षते ॥ 5-34-13(32849)
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्।
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ 5-34-14(32850)
वनस्पतेरपक्वानि फलानि प्रचिनोति यः।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ 5-34-15(32851)
यस्तु पक्वमुपादत्ते काले परिणतं फलम्।
फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ 5-34-16(32852)
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः।
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ 5-34-17(32853)
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥ 5-34-18(32854)
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः।
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥ 5-34-19(32855)
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं यथाऽगताः ।
कृतः पुरुषकारोऽहि भवेद्येषु निरर्थकः ॥ 5-34-20(32856)
` अनर्थे चैव निरतमर्थे चैव पराङ्भुखम्।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ 5-34-21(32857)
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ 5-34-22(32858)
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् ।
क्षिप्रमारभते कर्तुं न दीर्घयति तादृशान् ॥ 5-34-23(32859)
ऋजु पश्यति यः सर्वं चक्षुषा नु पिबन्निव ।
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ 5-34-24(32860)
सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः ।
अपक्वः पक्वसङ्काशो न तु शीर्येत कर्हिचित् ॥ 5-34-25(32861)
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥ 5-34-26(32862)
यस्मात्रस्यन्ति भूतानि मृगव्याधान्मृगा इव।
सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ 5-34-27(32863)
पितृपैतामहं राज्यं प्राप्यापि स्वेन कर्मणा।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ 5-34-28(32864)
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः।
वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी ॥ 5-34-29(32865)
अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः।
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा। 5-34-30(32866)
य एव यत्नः क्रियते परराष्ट्रविमर्दने।
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने । 5-34-31(32867)
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ 5-34-32(32868)
अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः।
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ 5-34-33(32869)
सुव्याहृतानि महतां सुकृतानि ततस्ततः।
सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा ॥ 5-34-34(32870)
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ 5-34-35(32871)
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुघा राजन्नैव तां वितुदन्त्यपि ॥ 5-34-36(32872)
यदतप्तं प्रणमति न तत्सन्तापमर्हति।
यच्च स्वयं नतं दारु न तत्संनामयेद्बुधः ॥ 5-34-37(32873)
एतयोपमया धीरः सन्नमेत बलीयसे।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥ 5-34-38(32874)
पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः।
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥ 5-34-39(32875)
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ 5-34-40(32876)
मानेन रक्ष्यते धान्यमश्वान्रक्षेदनुक्रमात्।
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ 5-34-41(32877)
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः।
अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ 5-34-42(32878)
य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ 5-34-43(32879)
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात्।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ 5-34-44(32880)
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः।
मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥ 5-34-45(32881)
असन्तोऽभ्यर्थिताः सद्भिः क्वचित्कार्ये कदाचन।
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ 5-34-46(32882)
गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ 5-34-47(32883)
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता।
अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ 5-34-48(32884)
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ 5-34-49(32885)
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ 5-34-50(32886)
संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा।
श्रुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ 5-34-51(32887)
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते।
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते ॥ 5-34-52(32888)
अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।
उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ 5-34-53(32889)
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
ऐश्वर्यमदमत्तो हि नो पतित्वाऽवबुध्यते ॥ 5-34-54(32890)
इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ 5-34-55(32891)
यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा ।
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ 5-34-56(32892)
अविजित्य य आत्मानममात्यान्विजिगीषते ।
अमित्रान्वा जितामात्यः सोऽवशः परिहीयते ॥ 5-34-57(32893)
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ 5-34-58(32894)
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ 5-34-59(32895)
रथः शरीरं पुरुषस्य राज-
न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः।
तैरप्रमत्तः कुशली सदश्वै-
र्दान्तैः सुखं याति रथीव धीरः ॥ 5-34-60(32896)
एतान्यनिगृहीतानि व्यापादयितुमप्यलम्।
अविधेया इवादान्ताः सरथं सारथिं हयम् ॥ 5-34-61(32897)
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः।
इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥ 5-34-62(32898)
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः ।
श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥ 5-34-63(32899)
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः।
इन्द्रियाणामनैश्वर्यादैश्वार्याद्भूश्यते हि सः ॥ 5-34-64(32900)
आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः ।
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 5-34-65(32901)
बन्धुरात्मात्मनस्तस्य येनैवात्मात्मना जितः।
स एव नियतो बन्धुः स एव नियतो रिपुः ॥ 5-34-66(32902)
क्षुद्राक्षेणेव जालेन झपावपिहितावुरू।
कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥ 5-34-67(32903)
समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति।
स वै संभृतसंभारः सततं सुखमेधते ॥ 5-34-68(32904)
यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मनोमयान्।
जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ 5-34-69(32905)
दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः।
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥ 5-34-70(32906)
असंत्यागात्पापकृतामपापां-
स्तुल्यो दण्डः स्पृशते मिश्रभावात्।
शुष्केणार्द्रं दह्यते मिश्रभावा-
त्तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ 5-34-71(32907)
निजानुत्पततः शत्रून्पश्च पञ्चप्रयोजनान्।
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥ 5-34-72(32908)
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता।
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ 5-34-73(32909)
आत्मज्ञानमानायासस्तितिक्षा धर्मनित्यता।
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ 5-34-74(32910)
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ 5-34-75(32911)
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् ।
शुश्रूपा तु वलं स्त्रीणां क्षमा गुणवतां बलम् ॥ 5-34-76(32912)
वाक्संयमो हि नृपते सुदुष्करतमो मतः।
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् ॥ 5-34-77(32913)
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता ।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ 5-34-78(32914)
रोहते सायकैर्विद्धं वनं परशुना हतम्।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥ 5-34-79(32915)
कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः।
वाक्छशल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ 5-34-80(32916)
वाक्सायका वदनान्निष्पतन्ति
यैराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति
तान्पण्डितो नावसृजेत्परेभ्यः ॥ 5-34-81(32917)
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥ 5-34-82(32918)
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ 5-34-83(32919)
सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ ।
पाण्डवानां विरोधेन न चैनानवबुध्यसे ॥ 5-34-84(32920)
राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत्।
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ 5-34-85(32921)
अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः।
तेजसा प्रज्ञया चैव युक्तो धर्मर्थतत्त्ववित् ॥ 5-34-86(32922)
अनुक्रोशादानृशंस्याद्योऽसौ धर्मभृतां वरः।
गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ ॥ 5-34-87(32923)
इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि चतुस्त्रिंशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-34-1 दह्यमानस्य चिन्ताग्निनेति ...... ॥ 5-34-2 अजातशत्रोः पध्ये कुरूणां च श्रेयस्करम् ॥ 5-34-3 पापाशङ्की भाविदुःखादुह्रिजन्। पापं स्वकृतं पर्वापराधं पश्यन् ॥ 5-34-6 मिथ्योपेतानि कपटद्युतादीनि। अनुपप्यैः असदपायैः प्रयुक्तानि दुःखफलानीत्यर्थः ॥ 5-34-8 अनुबन्धान् प्रयोजनानि ॥ 5-34-12 असांप्रतं अयुक्तं यथा स्यात्तथा न वर्तितव्यम् ॥ 5-34-13 मुखे मुष्टिमन्ते मृत्युदं कर्म न कर्तव्यमित्यर्थः। अनुबन्धे पश्चाद्बन्धम् ॥ 5-34-14 आद्यं भक्षणीयम् ॥ 5-34-18 अङ्गारकारको हि मूलत उत्कृत्य काष्ठं दहति । अङ्गार इङ्गालः ॥ 5-34-20 अनारभ्याः प्रबलैः सह वैरादयः। अगताः कदाचिदप्यप्राप्ताः ॥ 5-34- 23 लघुमूलान् अल्पोपायनान् ॥ 5-34- 25 सुपुष्पितः वाचा चक्षुषा चानुग्रहं दर्शयन्नपि अफलः स्यात्। भृत्ये न धनेन वर्धयेत्। सफलोपि सन् दुरारुहः भृत्यवश्यो न भवेत्। अपक्व इति। अन्तर्बलहीनोऽपि बलवत्तां बहिः प्रकाशयेदेवेत्यर्थः ॥ 5-34-26 कर्मणा दानेन। लोकं भृत्यवर्गम् ॥ 5-34-29 आदितः आदिकालात् सद्भिराचरितं धर्ममाचरत इत्यन्वयः ॥ 5-34-30 प्रतिसंवेष्टते संकुचति । बहुफलं न प्रयच्छतीत्यर्थः ॥ 5-34-32 न जहाति श्रियम् ॥ 5-34-34 सुव्याहृतानि पाण्डित्यवचनानि सुकृतानि तदुपदिष्टकर्माणि। शिलं कणिशाद्यर्जनम् ॥ 5-34-40 योगेन अभ्यासेन। मृजया उद्वर्तनेन ॥ 5-34-41 अनुक्रमः व्यायामशिक्षादिः । मानं द्रोणादि ॥ 5-34-42 प्रमाणं धर्मस्य कारणम् ॥ 5-34-44 अकाले इष्टसिद्धए प्राक् भीतः स्यात्। येन माद्येत् लोभादिना तन्न पिबेत् नाश्रयेत् ॥ 5-34-45 अभिजनः सहायः ॥ 5-34-51 संपन्नं मिष्टम् ॥ 5-34-53 शीलाभावे सत्सु अवमानो महान् क्लेश इत्याह अवृत्तीति ॥ 5-34-54 ऐश्वर्यमदः पापिष्ठो निन्दिततमो येभ्यस्ते पानमदादयो मदाः ॥ 5-34-55 इन्द्रियार्थेषु शब्दादिषु ग्रहैः सूर्यादिभिः ॥ 5-34-56 पञ्चवर्गः श्रोत्रादिगणः ॥ 5-34-58 आत्मानं मनः ॥ 5-34-61 व्यापादयितुं नाशयितुम्। अविधेयाः अवशाः ॥ 5-34-62 अर्थतोऽर्थहेतोः। अनर्थतः अन्यायतः ॥ 5-34-67 क्षुद्राक्षेण सूक्ष्मछिद्रेण प्रज्ञानं तौ नाशयतः। जालमिव महामीनावित्यर्थः ॥ 5-34-68 समवेक्ष्य अनुरुध्य। संभारान् जयसाधनानि ॥ 5-34-70 राजानो रावणादयः। राज्यविभ्रमैः ऐश्वर्यविलासैः । स्वकर्मभिः सीताहरणादिभिः ॥ 5-34-72 पञ्च इन्द्रियाणि पञ्चप्रयोजनानि शब्दश्रवणादीनि येषां तान्। उत्पततः उत्पथेन गच्छतः ॥ 5-34-73 अनायासः अचाञ्चल्यम् ॥ 5-34-74 तितिक्षा द्वन्द्वसहनशीलता। वाक्गुप्ता असंबद्धप्रलापाद्रक्षिता। अन्त्येषु नीचेषु ॥ 5-34-75 आक्रोशो रूक्षभाषणम्। परिवादो निन्दा ॥ 5-34-77 वाक्यसंयमो नियतं वचनम्। विचित्रं चमत्कारयुक्तम्॥ 5-34-79 बीभत्सं निन्दितं यतो न संरोहति ॥ 5-34-80 कर्णी कर्णाकृतिफलको बाणः। नालीकः नलिकया प्रक्षेप्यो बाणः। निर्हरन्ति निःसारयन्ति ॥ 5-34-81 नामर्मसु किंतु मर्मस्येव ॥ 5-34-82 अवाचीनानि नीचकर्माणि ॥ 5-34-85 शिष्यस्ते त्वदाज्ञकारी। शासिता पृथिव्याः ॥ 5-34-86 भागधेये राज्यांशे पुरस्कृतः 5-34-87 अनुक्रोशात् दयालुत्वात्। आनृशंस्यात् अक्रौर्यात् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|